Stotra

अथ शनिस्तोत्रम्

श्री: ॥ अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषि: शनैश्चरो देवत त्रिष्टुपछंद: शनैश्चरप्रीत्यर्थे जपे विनियोग: ॥

दशरथ उवाच ॥ कोणाऽन्तको रौद्रयमोऽथ बभ्रु: कृष्ण: शनि: पिंगलमंद सौरि: ॥ नित्यं स्मृतो यो हरते च पीडां तस्मै नम: श्रीरविनंदनाय ॥
सुरासुर: किंपुरूषा गणेंद्रा गन्धर्वविद्याधरपन्नगाश्च ॥ पीड्यंति सर्वे विषमस्थितेन तस्मै नाम: श्रीरविनंदनाय ॥
नरा नरेंद्रा: पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृंगा ॥ पीड्यंति सर्वे विषमस्थितेन तस्मै नम: श्रीरविनंदनाय ॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशा: पुरपत्तनाति ॥ पीड्यंति सर्वे विषमस्थितेन तस्मै नम: श्रीरविनंदनाय ॥
तिलैर्यवैर्माषगुडन्नदानैर्लोहेन नीलांबरदानतो वा ॥ प्रीणाति मंत्रैर्निजवासरे च तस्मै नम: श्रीरविनंदनाय ॥
प्रयाकूले यमुनातटे च सरस्वती पुण्यजले गुहायाम्‌ ॥ यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नम: श्रीरविनंदनाय ॥
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नर: सूखी स्यात्‌ ॥ गृहाद्‌ गतो यो न पुन: प्रयाति तस्मै नम: श्रीरविनंदनाय नम: ॥
स्रष्टा स्यंभूर्भुवनतरस्य त्राता हरि: संहरते पिनाकी ॥ एकस्त्रिधा ऋग्यजु:साममूर्तितस्मै नम: श्रीरविनंदनाय नम: ॥
शन्यष्टकं य: प्रयत: प्रभाते नित्यं सुपुत्रै: पशुबांधवैश्च ॥ पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं स: ॥
कोणस्थ: पिंगलो बभ्र: कृष्णा रौद्राऽन्तको यम: ॥ सौरि:शनेश्चरो मंद: पिप्पलादेन संस्तुत: ॥
एतानि दश नामानि प्रातरुत्थाप य: पठेत् ॥ शनैश्चरकृता पीडा न कदाचिद्‍भविष्यति ॥
इति श्रीदशरथप्रोक्तं शनैश्चरस्तोत्रं संपूर्णम् ॥

शिव तांडव स्त्रोतम्

जटाटवीगलज्जल प्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्‌।
डमड्डमड्डमड्डमनिनादवड्डमर्वयं
चकार चंडतांडवं तनोतु नः शिवः शिवम ॥

जटा कटा हसंभ्रम भ्रमन्निलिंपनिर्झरी ।
विलोलवी चिवल्लरी विराजमानमूर्धनि ।
धगद्धगद्ध गज्ज्वलल्ललाट पट्टपावके
किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥

धरा धरेंद्र नंदिनी विलास बंधुवंधुर-
स्फुरदृगंत संतति प्रमोद मानमानसे ।
कृपाकटाक्षधारणी निरुद्धदुर्धरापदि
कवचिद्विगम्बरे मनो विनोदमेतु वस्तुनि ॥

जटा भुजं गपिंगल स्फुरत्फणामणिप्रभा-
कदंबकुंकुम द्रवप्रलिप्त दिग्वधूमुखे ।
मदांध सिंधु रस्फुरत्वगुत्तरीयमेदुरे
मनो विनोदद्भुतं बिंभर्तु भूतभर्तरि ॥

सहस्र लोचन प्रभृत्य शेषलेखशेखर-
प्रसून धूलिधोरणी विधूसरांघ्रिपीठभूः ।
भुजंगराज मालया निबद्धजाटजूटकः
श्रिये चिराय जायतां चकोर बंधुशेखरः ॥

ललाट चत्वरज्वलद्धनंजयस्फुरिगभा-
निपीतपंचसायकं निमन्निलिंपनायम्‌ ।
सुधा मयुख लेखया विराजमानशेखरं
महा कपालि संपदे शिरोजयालमस्तू नः ॥

कराल भाल पट्टिकाधगद्धगद्धगज्ज्वल-
द्धनंजया धरीकृतप्रचंडपंचसायके ।
धराधरेंद्र नंदिनी कुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनि त्रिलोचने मतिर्मम ॥

नवीन मेघ मंडली निरुद्धदुर्धरस्फुर-
त्कुहु निशीथिनीतमः प्रबंधबंधुकंधरः ।
निलिम्पनिर्झरि धरस्तनोतु कृत्ति सिंधुरः
कलानिधानबंधुरः श्रियं जगंद्धुरंधरः ॥

प्रफुल्ल नील पंकज प्रपंचकालिमच्छटा-
विडंबि कंठकंध रारुचि प्रबंधकंधरम्‌
स्मरच्छिदं पुरच्छिंद भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमंतकच्छिदं भजे ॥

अगर्वसर्वमंगला कलाकदम्बमंजरी-
रसप्रवाह माधुरी विजृंभणा मधुव्रतम्‌ ।
स्मरांतकं पुरातकं भावंतकं मखांतकं
गजांतकांधकांतकं तमंतकांतकं भजे ॥

जयत्वदभ्रविभ्रम भ्रमद्भुजंगमस्फुर-
द्धगद्धगद्वि निर्गमत्कराल भाल हव्यवाट्-
धिमिद्धिमिद्धिमि नन्मृदंगतुंगमंगल-
ध्वनिक्रमप्रवर्तित प्रचण्ड ताण्डवः शिवः ॥

दृषद्विचित्रतल्पयोर्भुजंग मौक्तिकमस्रजो-
र्गरिष्ठरत्नलोष्टयोः सुहृद्विपक्षपक्षयोः ।
तृणारविंदचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रवर्तयन्मनः कदा सदाशिवं भजे ॥

कदा निलिंपनिर्झरी निकुजकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरःस्थमंजलिं वहन्‌ ।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌ कदा सुखी भवाम्यहम्‌ ॥

निलिम्प नाथनागरी कदम्ब मौलमल्लिका-
निगुम्फनिर्भक्षरन्म धूष्णिकामनोहरः ।
तनोतु नो मनोमुदं विनोदिनींमहनिशं
परिश्रय परं पदं तदंगजत्विषां चयः ॥

प्रचण्ड वाडवानल प्रभाशुभप्रचारणी
महाष्टसिद्धिकामिनी जनावहूत जल्पना ।
विमुक्त वाम लोचनो विवाहकालिकध्वनिः
शिवेति मन्त्रभूषगो जगज्जयाय जायताम्‌ ॥

इमं हि नित्यमेव मुक्तमुक्तमोत्तम स्तवं
पठन्स्मरन्‌ ब्रुवन्नरो विशुद्धमेति संततम्‌ ।
हरे गुरौ सुभक्तिमाशु याति नांयथा गतिं
विमोहनं हि देहना तु शंकरस्य चिंतनम ॥

पूजाऽवसानसमये दशवक्रत्रगीतं
यः शम्भूपूजनमिदं पठति प्रदोषे ।
तस्य स्थिरां रथगजेंद्रतुरंगयुक्तां
लक्ष्मी सदैव सुमुखीं प्रददाति शम्भुः ॥

सूर्यस्तोत्रम्

॥ श्रीगणेशाय नम: ॥
याज्ञवल्क्य उवाच ।
श्रृणुष्व मुनिशार्दूल सुर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥
देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम् । ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ॥
शिरो मे भास्कर: पातु ललाटं मेऽमितद्युति: । नेत्रे दिनमणि: पातु श्रवणे वासरेश्‍वर: ॥
घ्राणं घर्मघृणि: पातु वदनं वेदवाहन: । जिह्वां मे मानद: पातु कण्ठं मे सुरवंदित: ॥
स्कंधौ प्रभाकर: पातु वक्ष: पातु जनप्रिय: । पातु पादौ व्दादशात्मा सर्वांगं सकलेश्‍वर: ॥
सूर्यसक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥
सुस्नातो यो जपेत् सम्यग्योऽधीते स्वस्थमानस: । स रोगमुक्तो दीर्घायु: सुखं पुष्टिं च विंदति ॥

।। मृतसञ्जीवन स्तोत्रम् ।।

एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् | मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ||
सारात्सारतरं पुण्यं गुह्यात्गुह्यतरं शुभम् | महादेवस्य कवचं मृतसञ्जीवनामकम् ||
समाहितमना भूत्वा शृणुश्व कवचं शुभम् | शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ||
वराभयकरो यज्वा सर्वदेवनिषेवित: | मृत्युञ्जयो महादेव: प्राच्यां मां पातु सर्वदा ||
दधान: शक्तिमभयां त्रिमुखं षड्भुज: प्रभु: | सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ||
अष्टादशभुजोपेतो दण्डाभयकरो विभु: | यमरूपी महादेवो दक्षिणस्यां सदावतु ||
खड्गाभयकरो धीरो रक्षोगणनिषेवित: | रक्षोरूपी महेशो मां नैऋत्यां सर्वदावतु ||
पाशाभयभुज: सर्वरत्नाकरनिषेवित: | वरूणात्मा महादेव: पश्चिमे मां सदावतु ||
गदाभयकर: प्राणनायक: सर्वदागति: | वायव्यां वारुतात्मा मां शङ्कर: पातु सर्वदा ||
शङ्खाभयकरस्थो मां नायक: परमेश्वर: | सर्वात्मान्तरदिग्भागे पातु मां शङ्कर: प्रभु: ||
शूलाभयकर: सर्वविद्यानामधिनायक: | ईशानात्मा तथैशान्यां पातु मां परमेश्वर: ||
ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽध: सदावतु | शिरो मे शङ्कर: पातु ललाटं चन्द्रशेखर: ||
भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु | भ्रूयुग्मं गिरिश: पातु कर्णौ पातु महेश्वर: ||
नासिकां मे महादेव ओष्ठौ पातु वृषध्वज: | जिव्हां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ||
मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषण: | पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ||
पञ्चवक्त्र: स्तनौ पातु उदरं जगदीश्वर: | नाभिं पातु विरूपाक्ष: पार्श्वो मे पार्वतिपति: ||
कटद्वयं गिरिशौ मे पृष्ठं मे प्रमथाधिप: | गुह्यं महेश्वर: पातु ममोरु पातु भैरव: ||
जानुनी मे जगद्धर्ता जङ्घे मे जगदंबिका | पादौ मे सततं पातु लोकवन्द्य: सदाशिव: ||
गिरिश: पातु मे भार्या भव: पातु सुतान्मम | मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायक: ||
सर्वाङ्गं मे सदा पातु कालकाल: सदाशिव: | एतत्ते कवचं पुण्यं देवतानांच दुर्लभम् ||
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् | सहस्त्रावर्तनं चास्य पुरश्चरणमीरितम् ||
य: पठेच्छृणुयानित्यं श्रावयेत्सु समाहित: | सकालमृत्यु निर्जित्य सदायुष्यं समश्नुते ||
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ | आधयोव्याधयस्तस्य न भवन्ति कदाचन ||
कालमृत्युमपि प्राप्तमसौ जयति सर्वदा | अणिमादिगुणैश्वर्यं लभते मानवोत्तम: ||
युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम | युद्धमध्ये स्थित: शत्रु: सद्य: सर्वैर्न दृश्यते ||
न ब्रह्मादिनी चास्त्राणि क्षयं कुर्वन्ति तस्य वै | विजयं लभते देवयुद्धमध्येऽपि सर्वदा ||
प्रातरूत्थाय सततं य: पठेत्कवचं शुभम् | अक्षय्यं लभते सौख्यमिहलोके परत्र च ||
सर्वव्याधिविनिर्मुक्त: सर्वरोगविवर्जित: | अजरामरणो भूत्वा सदा षोडशवार्षिक: ||
विचरत्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् | तस्मादिदं महागोप्यं कवचं समुदाहृतम् ||
मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम् | मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम् ||

आदित्यहृदयस्तोत्रम्

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥
दैततैश्‍च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥
राम राम महाबाहो श्रृणु गुह्मं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥
आदित्यहृदयं पुण्यं. सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥
सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वत्‍नं भास्करं भुवनेश्‍वरम् ॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । एष देवासुरगणाँल्लोकान् पाति गभस्तिभि: ॥
एष ब्रह्मा च विष्णुश्‍च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यपां पतिः ॥
पितरो वसव: साध्या अश्‍विनौ मरुतो मनु: । वायुर्वहिन: प्रजा प्राणा ऋतुकर्ता प्रभाकर: ॥
आदित्य: सविता सुर्य: खग: पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥
हरिदश्‍व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥
व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥
आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। कविर्विश्‍वो महातेजा: रक्त: सर्वभवोद् भव: ॥
नक्षत्रग्रहताराणामधिपो विश्‍वभावन: । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥
नम: पुर्वाय गिरये पश्‍चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥
जयाय जयभद्राय हर्यश्‍वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥
नम उग्राय वीराय सारंगाय नमो नम: । नम: पह्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥
तप्तचामीकराभाय हरये विश्‍वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥
नाशयत्येष वै भूतं तमेष सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥
देवाश्‍च क्रतवश्‍चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वषु परमप्रभु: ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुष: कश्‍चिन्नावसीदति राघव ॥
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । सर्वयत्‍नेन महता वृतस्तस्य वधेऽभवत् ॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥

गोपाल सहस्रनाम स्तोत्र

पार्वत्युवाच- कैलासशिखरे रम्ये गौरी पृच्छति शंकरम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः॥
त्वमेव पूज्यसेलौकै र्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वरः॥
आश्चर्यमिदमत्यन्तं जायते मम शंकर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर॥

श्री महादेव उवाच- धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम्‌॥
धनरत्नौघमाणिक्यं तुरंगं गजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम्‌॥
तत्तेऽहं संप्रवक्ष्यामि श्रृणुष्वावहिता प्रिये । योऽसौ निरंजनो देवश्चित्स्वरूपी जनार्दनः॥
संसारसागरोत्तारकारणाय सदा नृणाम् । श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः॥
निरंजनो निराकारो भक्तानां प्रीतिकामदः । वृदावनविहाराय गोपालं रूपमुद्वहन्‌॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः॥
श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः । धरिणीरूपिणी माता यशोदानन्ददायिनी॥
द्वाभ्यां प्रायाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरि॥
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका । तयासार्द्ध वचःकृत्वा ततो जातो महीतले॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम्‌॥
गौरतेजो बिना यस्तु श्यामतैजः समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे॥
स ब्रह्महासुरापी च स्वर्णस्तेयी च पंचमः । एतैर्दोषैर्विलिप्ये तेजोभेदान्महेश्वरि।
तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैव भाषितम्‌॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहं भेदमात्मनः॥
निरंजनात्समुत्पन्नं मयाऽधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च॥
ततो नारदतः सर्व विरला वैष्णवास्तथा । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत्‌॥

;